सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ काव्यमाला । १. ‘प्रे गणे' ख. तत्र तेनेदमिति सरूपे ॥ २७ ॥ परितस्तिमिरं बिजूम्भमाणं दिवि सांध्यं च सहः कृतात्मलाभम् । घटनां समुपागते विरुद्धे विदधाते स्म कचाकचीव युद्धम् ॥ २८ ॥ तेन सहेति तुल्ययोगे ॥ २८ ॥ चार्थे द्वन्द्वः ॥ २९ ॥ अजसमाबद्धविकारशोर्भ सांध्यं महः साम्बुरुहं क्रमेण । सकोचमानीतमशेषमेव ध्वान्तेन मेघद्विरदासितेन ॥ २९ ॥ - ' उपसर्जनं पूर्वम् ॥ ३० ॥ कष्टश्रिताः प्राप्य तमोबिहंगास्तत्खण्डिताः संकुचिता नलिन्यः । आलोकितं लोकहितं प्रणष्टं कृत्वात्मना संपदि कस्य नापत् ॥ ३० ॥ राजदन्तादिषु परम् ॥ ३१ ॥ तम:प्रतानावृतदृष्टयोऽपि गन्धेन पुष्पमभवेन कृष्टाः । विमुच्य संमीलितमञ्जराशिमग्रेवैणं भृङ्गगणा विलीनाः ॥ ३१ ॥ ब्रन्त्रे घि ॥ ३२ । अजाद्यदन्तम् ॥ ३३ ॥ अल्पाः चन्तरम् ॥ ३४ ॥ रविदिनरहिते जगत्यमुष्मिन्नगनगदेहविरोधमादधानम् प्रलय इव जलं तमः प्रवृद्धं भवभवनादिविवेकमा()स्यदाशु ॥ ३२ ॥ ससमीविशेषणे बहुव्रीहौ ॥ ३५ ॥ निष्ठा ॥ ३६ ॥ तिमिरमतानविनिरुद्धदिघुखं गगनं परिस्फुरितारकाशतम् विलसदुर्जगतनुमेचकं बभा बुदरे मणि जलनिधिं व्यडम्बयत् ॥ ३३ ॥ ॥ ३७ ॥ अइयाहितं मन्दिरमाहिताग्रयः संप्राप्य हुत्वानलमुज्झितसुवः । आमृष्टधूमाविललोचनद्वयाः संध्याविरामे प्रतिनिर्गता द्विजाः ॥ ३४ ॥ कडाराः कर्मधारये ॥ ३८ ॥ - [२. अ० ३ पा० ६ स०] रावणार्जुनीयम् ३९ इति जगति विलोक्य प्रस्फुरचौरुतारा खलमिव तिमिरौघं नश्वरं जूम्भमाणम् । उद्यपिहितमूर्तेस्तेजसा शीतकान्तेः सुखमवहदिवाशा समितं वासवीया ॥ ३६ ॥ इति श्रीरावणार्जुनीये महाकाव्ये पूौपरपादे पञ्चमः सर्गः ॥ ५ ॥ द्वितीयाध्यायस्य तृतीयपादे षष्ठः सर्गः । अनभिहिते ॥ १ ॥ कर्मणि द्वितीया ॥ २ ॥ अन्तरा रेणयुत्ते ॥ ४ अथान्तरेणोद्यदनेकतारां धर्माधिपाशां दिशमुत्तरां च । उबाह् शीतांशुकरान्विदिश्यान्पूर्वोदयाद्रिः पलितायमानान् ॥ १ ॥ माची प्रतीचीं च दिशं हिमांशोस्तैथोत्तरा भानुमदुष्णमुक्तः । खे चन्द्रिकादृश्यत निःसरन्ती शनैः शनैर्देहभयादिवोष्णे ॥ २ ॥ कालाध्वनोरत्यन्तसंयोगे ॥ ५ ॥ चुक्रोश चक्राहयुगं त्रियामां शशाङ्कपादैरिव दद्यामानाम् । कुमुद्वतीसौरभकृष्टचित्ता भृङ्गा ययुः क्रोशमपि कणन्तः ॥ ३ ॥ अपवर्गे तृतीया ।। ६ ।। दिनेन या कान्तियुता परीता विमुच्य तामम्बुजिनीं प्रदोषे । कुमुद्वतीं भृङ्गगणाः प्रयाताः कार्याद्विना चाटु करो न कश्चित् ॥ ४ ॥ ससमीपञ्चम्यौ कारकमध्ये ॥ ७ ॥ प्राच्यां स्थितः शीतकरः करायैव्र्यद्योतयत्क्रोशशते दिगन्तान् । चन्द्रोदये लोकमनांसि कामः कापि स्थितः क्रोशशतादविध्यत् ॥ १ ॥ रथाङ्गनामा दयितां दिनान्ते दृष्ट्रा पुनर्दूक्ष्यति तां प्रभाते । चन्द्रावदाता दयितासहायैर्न मन्दभाग्यैः सुलभाः प्रदोषाः ॥ १ ॥ ज्योत्खाद्यलब्ध्वा शशिनं निशायां लब्ध्वा पुनः धोदिवसावसानात् । एवं लभेयाहमपि स्वकान्तमुत्केति काचिन्निजगाद दूतीम् ॥ ७ ॥ १. कडारादिगणे तु गौरशब्द उपलभ्यते. चारुशब्दो नष्ठो भवेत्. २. ‘तथान्तरा' इति पाठः प्रदीयते. ३. ‘विच' ख.