३८ पादेन वा पङ्गरचेष्टवृत्तिश्चन्द्रोदयेऽप्यास्त विहंगसंघः । कुमुद्वती संददृशे द्विरेफैर्विकासवद्भिः कुमुदैः सरस्था ॥ २६ ॥ संज्ञोऽन्यतरस्यां कर्मणि ॥ २२ ॥ अम्भोजिन्या सौरभामोदभाजा संजानीते भृङ्गमाला स्म दूरात् । ध्वान्तानीलां तां पुरा खे पतन्तीं संजानीते मन्द्रलापेन लोकः ॥२१॥ हेतौ ॥ २३ ॥ हंसा विभिन्नेन समा वसन्तः पद्माकरं फेनचयाबदाताः । विशुद्धचन्द्रांशुसमावृताङ्गा जाता रजन्या परिमार्गणीयाः ॥ २७ ॥ अकर्तणे पञ्चमी ॥ २४ । भृङ्गः शशाङ्कागमबद्धबोधं गन्धेन बुद्धा कुमुदं पिपासुः । निःखः शताद्रद्ध ॥ २८ विभाषा गुणेऽस्त्रियाम् ॥ २५ गृहीतमानाप्युपकान्तमन्या खयं प्रयान्ती परिमुक्तधैर्या निषेधवाग्वागुरयैत्य सख्या जाडयेन रुद्धा हरिणीव काचित् ॥ २९ ॥ | वियोगमाराचिततानवाङ्गी शल्यायमानान्दधती निजासून जाड्याद्विमुक्ता दयितेन काचिचन्द्रावभासं दहनीयति स्म ॥ ३० ॥ षष्ठी हेतुप्रयोगे ॥ २६ कान्तस्य हेतोर्गुहदेहभूषां मुहुर्मुहुश्चक्ररुदीक्षमाणाः । जनप्रियाराधनबद्धयले दुःखे हि खेदो लभतेऽवकाशम् ॥ ३१ ॥ सर्वनान्नस्तृतीया च ॥ २७ ॥ स कस्य हेतोः सखि नागतोऽद्य त्वं हेतुना केन चिरादुपेता । काचिज्जगादेति धृताभ्यसूयं क नाम न प्रेम करोति शङ्काम् ॥ ३१ ॥ मयूखजालेन हिमांशुविम्वादुपेयुषा वर्धितमन्मथेच्छः । रतोपभोगप्रवणैकचेता गृहे गृहेऽजायत कामिलोकः ॥ ३३ ॥ [३ अ० ३ पा० ६ स०] म् ।। अन्यारादितरतेंदिक्छब्दात्तरपदाजाहियुत्ते २९ नान्यो रिपोर्यस्तपति प्रकाममारादिवागत्य दिवः शशी ताम् । ऋते गमात्ते गमितेतरेण मृत्योव्र्यथां मा मदनेन विद्धि ॥ ३४ ॥ तन्मृत्युतः प्राकथितं मयास्याः स दक्षिणस्थे न तु दक्षिणाहि । सह मया न मियमुक्तमत्र सख्यागता मे ननु साक्षिणीयम् ॥ ३५ ॥ मृषा'मयोक्तं यदि मन्यसे त्वं पश्याशु मे दक्षिणतस्ततोऽसून । तामङ्गलीनामुपदर्शयन्ती सख्याः पतिं कांचिदवोचदित्थम् ॥ ३६ ॥ षष्ठ्यतसर्थप्रत्ययेन ॥ ३० ॥ ज्योत्स्रोपरिष्टाद्रवनस्य कान्ता तथापि नष्टस्तमसीव मेऽसौ । उत्तेति सख्याशु मुमोह काचिज्जनो विदाही परिहास एव ॥ ३७ ॥ एनपा द्वितीया ॥ ३१ ॥ उपर्यनल्पा भवनस्य कीर्णा चन्द्रद्युतिः केतकरेणुशुम्रा । लोकस्य रेजे रतये गृहाणि सा दक्षिणेनाशु तथोत्तरेण ॥ ३८ ॥ पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ॥ ३२ ॥ विनापि चन्द्रेण विनापि धैर्यान्नार्यो ययुर्या वसतिं प्रियाणाम् । ताः प्राप्य चन्द्रं स्मरदत्तधैर्या यातीर्नरोढुं विधिरप्यनीशः ॥ ३९ ॥ दुनोति चन्द्रात्पृथगप्यनङ्गस्तां चन्द्रयुक्तः किमु संहितेषुः । पृथक्त्वया जीवति साद्य दुःखं सखेति कश्धिजगदे मियायाः ॥ ४० ॥ नानापि वहेर्दहतीति चन्द्रश्चन्द्रेण नानापि पुनः स कान्तः । प्रह्मादहेतुः सखि याहि तेन प्रोवाच काचित्प्रमदेति दूतीम् ॥ ४१ ॥ करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य ३३ कृच्छादवाप्त दिवसावसाने कृच्छेण मुक्ता विरहव्यथाभिः । ननन्द नारी पतिमीक्षमाणा सुखं जनस्य प्रियलाभमात्रम् ॥ ४२ ॥ स्तोकेन रुष्टा दयिताय नारी स्तोकादुपेता पुनरेव तोषम् । करोति चेष्टा जनतोपहास्याः प्रेम्णा ग्रहेणेव जनो गृहीतः ॥ ४३ ॥ १. ‘स्रा' इति पाठः प्रतीयते. २. ‘स्ते' इति भवेत्,
पृष्ठम्:रावणार्जुनीयम्.djvu/२३
दिखावट