पृष्ठम्:रामायणमञ्जरी.pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९२
काव्यमाला ।


लङ्केश्वरं समालोक्य रत्नाभरणभास्वरम् ।
सुरस्त्रीचामरोल्लासविलाप्तोल्लुलितांशुकम् ।। २६ ।।
प्रणम्य सूचिता भिक्षा प्रणयेन विभीषणः ।
भेजे तद्भ्रूविनिर्दिष्टं प्रीतिशासनमासनम् ॥ २७ ॥
निवातसुप्तजलधिप्रभे निःशब्दनिश्चले।
तस्मिन्सदसि गम्भीरे प्रगल्भः सोऽभ्यधात्प्रभुम् ॥ २८ ॥
इयं सुरासुरादेशजययात्रोत्सवाशिषाम् ।
भाजनं भवतो लक्ष्मीरक्षीणोत्साहलक्षणा ॥ २९ ॥
इयती भूमिमारूढा संपत्संपन्नपौरुपा ।
लज्जैषा महती याति यदि दुर्नयवाच्यताम् ॥ ३० ॥
विभूतिरयशःस्पृष्टा शिष्टाचारोज्झिता मतिः ।
चेप्टासाधुजनानिष्टा न भवत्युन्नतात्मनाम् ॥ ३१ ॥
सुरासुरशिरोरत्नमालाललितशासनः ।
प्रभावो विभवोद्गारः कस्यान्यस्य यथा तव ॥ ३२ ॥
गुणमानकुलाचारप्रभावविनयादयः ।
निपतन्त्युन्नतिं याता रूक्षास्तस्माद्विशेषतः ॥ ३३ ॥
इयं श्रीनिरनुक्रोशा वेश्येयं बहुगामिनी ।
सरागविमुखी नित्यं व्यसनिभ्यः पलायते ॥ ३४ ॥
राजन्घोराणि दृश्यन्ते निमित्तानि गृहेपु नः ।
यदैव रामस्य वधूः प्रविष्टा दुःखदूतिका ॥ ३५ ॥
अग्निहोत्रे न भात्यग्निर्हविः क्रिमिकुलाकुलम् ।
गजाश्वसंप्रहृष्टं च लङ्का क्रव्यादनादिता ॥ ३६ ॥
तदेषां दुर्निमित्तानां प्रायश्चित्तमिद परम् ।
यदेषा त्यज्यते तूर्णं काकुत्स्थायैव मैथिली ॥ ३७ ॥
इति भ्रातुर्वचः श्रुत्वा मुखान्यालोक्य मन्त्रिणाम् ।
निजगाद दशग्रीवः कोपजिह्मानताननः ।। ३८॥