पृष्ठम्:रामायणमञ्जरी.pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९१
रामायणमञ्जरी।


विचिन्त्य राघवं पुत्र महन्मे जायते भयम् ।
दारापहारकुपितं कथमुत्सहते युधि ।। १४ ॥
कालं व्यालं गले कृत्वा धृत्वा मूर्त्ं हुताशनम् ।
दंष्ट्रामाक्रम्य सिंहस्य मूढः शेते दशाननः ॥ १५ ॥
पौलस्त्यस्य प्ररूढोऽयं विनाशविषपादपः ।
स लङ्काज्वलनो यस्य नवः किसलयोद्गमः ॥ १६ ॥
वात्सल्यं यदि ते भ्रातुस्तद्गत्वा ब्रूहि तं हितम् ।
श्रियं सहायुषा येन संत्यजन्नोन्नतोन्नताम् ॥ १७ ॥
इत्युक्त्वा राक्षसेन्द्रस्य युक्तं माता विभीषणम् ।
विरराम चिरं ध्यात्वा दुःसहं रामविक्रमम् ॥ १८ ॥
इति विभीषणमातृवाक्यम् ॥ १॥
ततः प्रभाते विस्फाररत्नादिशिखरोपमम् ।
ययौ विभीषणस्तूर्णं दशकंधरमन्दिरम् ॥ १९ ॥
स प्रविश्य सभासीनं महामात्यैः समावृतम् ।
ददर्श तेजसां राशिं शेखरं त्रिदशद्विषाम् ॥ २० ॥
सुरकिंनरगन्धर्वनिषेधप्रभविष्णुभिः ।
वेत्रिभिर्भ्रूसमुत्क्षेपनिवारितजनस्वनम् ।। २१ ॥
रूढवज्रशिखोल्लेखगण्डस्थगितकुण्डलम् ।
प्रणताननुगृह्णन्तं सामन्तानवलोकनैः ॥ २२ ॥
त्यक्तालका कुबेरेण चिरशून्यामरावती ।
ध्वस्तपातालमित्यादिसंदेशे श्रवणोत्सुकम् ॥ २३ ॥
तापं संहर तिग्मांशो नीचैर्गच्छ समीरण ।
मौनी भवाग्रे त्वमिति प्रोद्गताग्रेसरस्व नः ॥ २४ ॥
वक्षःप्रकारगम्भीरतन्भसंभारदोर्द्रुमम् ।
अधृष्यं सर्वभूतानां कारागारमिव श्रियः ॥ २५ ॥


१. 'मूर्ध्नि' शा.. २. 'मात्वशतैर्वृतम् शा.. ३. 'स्खलित' क-स,