पृष्ठम्:रामायणमञ्जरी.pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८०
काव्यमाला ।


ततः प्रहारभग्नाङ्गः सुग्रीवो वालिनिर्जितः ।
जगाम जीविताकाङ्क्षी त्वरितं निजकाननम् ॥ ११० ॥
घोराभिघाताभिहतो रुधिरोद्गारमूर्छितः ।
ऋष्यमूकतटे श्रान्तः सोच्छ्वासो निषसाद सः ॥ १११ ॥
ततः सानुजमायान्तं हनूमत्प्रमुखैः सह ।
रामं जगाद सुग्रीवः क्षणमालोकयन्क्षितिम् ॥ ११२ ॥
अहो मे हीनभाग्यस्य विफलस्त्वत्समाश्रयः ।
विपरीतमिदं जातं पीयूषादिव मे विषम् ॥ ११३ ॥
मिथ्या वालिवधोद्योगः किं गृहीतः स्वयं त्वया ।
हृदये शल्यमादत्ते प्रतिश्रुतिविपर्ययः ॥ ११४ ॥
न्यस्तस्त्वया मृत्युमुखे कस्मादहमुपेक्षितः ।
सोऽयमालम्बनच्छेदः कृतः कूपावपातितः ॥ ११५ ॥
इति ब्रुवाणं सुग्रीवं रामो लज्जानताननः ।
उवाच कोपमात्सर्यकारणं शृणु मे सखे ॥ ११६ ॥
युद्धे युवां मया दृष्टौ सदृशाभरणाम्बरौ ।
तुल्यप्रमाणवर्णाङ्गस्वरालोकनचेष्टितौ ॥ ११७ ॥
अतोऽयं त्वद्वधभयान्मया वज्राग्रदारुणः ।
अमोघपाती न त्यक्तः सत्यं प्राणहरः शरः ॥ ११८ ॥
अधुना प्रत्यभिज्ञायै पुंनागकुसुमोज्ज्वलाम् ।
मालां कुरु विशालोरस्तटव्योमसुरापगाम् ॥ ११९ ॥
एषोऽहं धनुरप्येतदयं मृत्युकरः शरः ।
वालिनो निधने रामः किं पुनः पुनरुच्यते ॥ १२० ॥
इति रामस्य वचसा सुग्रीवोरसि लक्ष्मणः ।
नागपुष्पमयीं मालां चक्रे कान्तास्मितोज्वलाम् ॥ १२१ ॥
स तया विबभौ भाविविजयव्यञ्जनस्रजा ।
शुभ्राभ्रमालाभरणः श्रीमानिव सुराचलः ॥ १२२ ॥


१. 'मुत्सार्य' स्यात्.