पृष्ठम्:रामायणमञ्जरी.pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८१
रामायणमञ्जरी ।


ततः प्रतस्थे सुग्रीवः किष्किन्धां राघवानुगः ।
तारेण नलनीलाभ्यां सह वायुसुतेन सः ॥ १२३ ॥
इति सुग्रीववालियुद्धम् ॥ ३ ॥
ते व्रजन्तः समुत्तीर्य सरिद्गिरिवनावनिम् ।
ददृशुर्नीलजीमूतश्यामलं कदलीवनम् ॥ १२४ ॥
कस्येदमिति रामेण पृष्टः कपिपतिर्वनम् ।
गच्छन्नेव शशंसास्य पुण्यं चारु सदाफलम् ॥ १२५ ॥
अत्र सप्तजना नाम मुनयोऽन्तर्जलव्रताः ।
सप्तभिर्वत्सरशतैः सशरीरा दिवं गताः ॥ १२६ ॥
पुण्योऽयमाश्रमस्तेषामगम्यः पक्षिणामपि ।
दृश्यते होमधूमोऽत्र दिव्यश्च श्रूयते ध्वनिः ॥ १२७ ॥
देशः पुण्यः प्रणम्योऽयमेतदाकर्ण्य राघवः ।
मनसा मुनिचक्रं तद्ववन्दे स तपोवनम् ॥ १२८ ॥
किष्किन्धामथ संप्राप्य काञ्चनाट्टालमालिनीम् ।
घोरं ननाद सुग्रीवः पुष्करावर्तनिःस्वनः ॥ १२९ ॥
तेनाकम्पितविश्वेन शब्देनाकम्पकारिणा ।
अभूदभूतसंभूतो भूतानां कम्पविप्लवः ॥ १३० ॥
किष्किन्धाद्रिगुहागेहसक्तकिंनरकामिनाम् ।
बभूवोद्भ्रान्तदयितागाढलिङ्गनविभ्रमः ॥ १३१ ॥
तं शब्दं पवनस्कन्धसंघट्टस्फालनोद्धतम् ।
शुश्रावान्तःपुरगतो वाली मधुमदाकुलः ॥ १३२ ॥
स तस्य ललनाकेलिवल्लरीकुसुमाकरः ।
मदः क्वापि ययौ नादक्रोधाविष्कृतचेतसः ॥ १३३ ॥
कोपेन ज्वलितः क्षिप्रं कल्पान्तहुतभुक्प्रभः ।
बभार विश्वसंहारव्यापारपिशुनं वपुः ॥ १३४ ॥


१. 'तत्र' ख. २. 'युधः' शा०.