पृष्ठम्:रामायणमञ्जरी.pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७९
रामायणमञ्जरी ।


अधुनैव हतः शत्रुः सोदरव्यञ्जनः स मे ।
निःसंशयोदयप्राप्तो मयायं त्वत्समाश्रयः ॥ ९७ ॥
परीक्षालाधवकृतं मन्युं मे मा कृथा विभो ।
यथोक्तकारिणः प्रीत्या व्यसनार्तेषु साधवः ॥ ९८ ॥
पराभवोद्धृतौ यत्नः क्रियतामद्य मे त्वया ।
भवन्तु वालिसुहृदो विपन्नविभवोत्सवाः ॥ ९९ ॥
इति ब्रुवाणं सुग्रीवं परिष्वज्य जयोत्सुकम् ।
सितांशुपुष्पां काकुत्स्थः सफलां गिरमाददे ॥ १०० ॥
अद्यैव गत्वा किष्किन्धां नादेनाहूय वालिनम् ।
आकर्णाकृष्टचापस्य कुरु मे दृष्टिगोचरम् ॥ १०१ ॥
अयं मे वह्निदीप्तोऽपि त्वत्प्रियायोद्यतः शरः ।
यातु वालिवधूबाष्पदुर्दिने वारुणास्त्रताम् ॥ १०२ ॥
राघवेनेत्यभिहिते सुग्रीवः प्रययौ पुरः ।
किष्किन्धामुद्धतगतिस्तं रामोऽनुजगाम च ॥ १०३ ॥
ततो ननाद मन्थाद्रिध्वानधीरं प्लवङ्गमः ।
चिरं चकम्पिरे येन दिशः स्वस्ताम्बरा इव ॥ १०४ ॥
तेन शब्देन महता प्रौढोन्मादविषाकुलः ।
निर्ययौ मन्दिराद्वाली बिलादिव महोरगः ॥ १०५ ॥
स सुग्रीवं पुरो दृष्ट्वा विपुलक्रोधविस्मयः ।
गाढं भुजाभ्यां जग्राह चिरात्प्रियमिवागतम् ॥ १०६ ॥
तयोर्युद्धमभूद्घोरं कम्पिताखिलभूतलम् ।
जानुबन्धभुजाकर्षकरास्फालनकर्कशम् ॥ १०७ ॥
तस्मिन्क्षितिधराम्भोधिक्षोभकारिणि संगरे ।
भयमाविरभूद्धोरं भूतानां क्षयशङ्किनाम् ॥ १०८ ॥
तौ निर्विशेषावालोक्य प्रमाणाकृतिविक्रमैः ।
रामः सुहृद्वधभयान्न मुमोच शिलीमुखम् ॥ १०९ ॥


१.'प्रभो' ख. २. 'सुहदं' ख. ३. 'भय' ख.