पृष्ठम्:रामायणमञ्जरी.pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७८
काव्यमाला ।


शुष्कास्थिनिचयः कायः सोऽयमास्तेऽत्र दुन्दुभेः ।
विभ्रष्टः शैलशिखरादिव प्रालेयसंचयः ॥ ८४ ॥
एते सप्त महातालाः शरेणैकेन वालिना ।
विद्धाः प्रवृद्धवयसा निःसाराश्च कृताः पुरा ॥ ८५ ॥
माला हेममयी दत्ता पित्रा शक्रेण तस्य सा ।
यस्याः प्रभावात्सततं युद्धेषु स गतक्लमः ॥ ८६ ॥
सौहार्दे प्रणयादुच्चैर्वैमुख्यं मयि मा कृथाः ।
स कथं भवता युद्धे जेतुं शक्यः शरैः सखे ॥ ८७ ॥
सुग्रीवेणेति कथिते शुष्कं दुन्दुभिविग्रहम् ।
पादाङ्गुष्ठेन चिक्षेप रामोऽपि दशयोजनम् ॥ ८८ ॥
तद्दृष्ट्वा कर्म रामस्य साश्चर्यमपि वानरः ।
उवाच भूतभयदं चिन्तयन्वालिविग्रहम् ॥ ८९ ॥
खेदो यदि न मद्वाक्ये विस्रम्भप्रणयो यदि ।
आर्द्रोऽयं वालिना क्षिप्तः शुष्कत्वे कास्य तुल्यता ॥ ९० ॥
शरेणैकेन विद्वेषु त्वया तालेषु सप्तसु ।
सर्वथा वालिहन्तारं जाने त्वां छिन्नसंशयः ॥ ९१ ॥
इति वालिवैरोपाख्यानम् ॥ २ ॥
श्रुत्वेति सुग्रीववचश्चापमाकृष्य राघवः ।
शरं चिक्षेप निर्वृत्तघोषेणापूरयन्दिशः ॥ ९२ ॥
स सप्त तालान्निर्भिद्य रामचापच्युतः शरः ।
गिरिं भित्त्वा क्षितितलं विवेशाहिरिव श्वसन् ॥ ९३ ॥
कृत्वातिदुष्करं कर्म हसो भूत्वा मनोजवः ।
राममेवाजगामाशु स कौतुककरः शरः ॥ ९४ ॥
ततः कृत्वाञ्जलिं मूर्ध्ना क्ष्मां स्पृशन्पृथुविस्मयः ।
परीक्षालज्जितो राममूचे हृष्टः कपीश्वरः ॥ ९५ ॥
सप्ततालभिदा व्यक्तं विशिखेनाशुगामिना ।
नीतं तव यशः सप्तलोककर्णावतंसताम् ॥ ९६ ॥