पृष्ठम्:रामायणमञ्जरी.pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७७
रामायणमञ्जरी ।


कालेन हत्वा पाताले वाली मायाविनं रणे ।
ददर्शाभ्येत्य मां राज्ये स्थितं कोपानलाकुलः ॥ ७२ ॥
स मया पूर्ववत्प्रीत्या विनयेनाभिपूजितः ।
प्रणयं मे न जग्राह किल्बिषात्कलुषाशयः ॥ ७३ ॥
राजा त्वमेव दासोऽहं न राज्ये मे स्पृहाभवत् ।
इत्युक्तोऽपि मया प्रीत्या प्रसादं मयि नाययौ ॥ ७४ ॥
मिथ्याकलङ्ककलिला लीला स्निग्धजनाशये ।
सर्वथा दैवविहिता विदेशा केन वार्यते ॥ ७५ ॥
सोऽब्रवीत्सचिवान्सर्वान्भ्रात्रानेन दुरात्मना ।
सक्तस्य मे रिपुवधे शिलया पिहितं बिलम् ॥ ७६ ॥
अविज्ञाताशयेनेति साधुमध्ये विगर्हितः ।
विक्रीत इव मूकोऽहमभवं व्यथितः परम् ॥ ७७ ॥
कर्मणा सदृशे दोषे निर्दोषस्यापि लक्ष्यते ।
अदृश्यैव पुनः शुद्धिः केन प्रत्युत्तरक्रिया ॥ ७८ ॥
ततोऽहमेकवसनो हृतदारधनः पुरात् ।
निर्वासितः परिचितैश्चतुर्भिः सचिवैः सह ॥ ७९ ॥
सोऽहं मिथ्यानिकारेण निरस्तः शौर्यशालिना ।
वालिना निवसाम्यस्मिन्मतङ्गाश्रमकानने ॥ ८० ॥
पुरा स दुन्दुभिं हत्वा रक्तार्द्रं तत्कलेवरम् ।
चिक्षेप पादाङ्गुष्ठेन योजनं विजयोर्जितः ॥ ८१ ॥
तावता वक्त्रनिसृताः स्फारा रुधिरबिन्दवः ।
मतङ्गस्याश्रमे पेतुः पवनावर्तनर्तिताः ॥ ८२ ॥
तच्छापाद्वानरपतेरगम्योऽयं महाचलः ।
येनास्मिन्विगताशङ्कास्तस्मिन्नपि रिपौ वयम् ॥ ८३ ॥


१. 'पवाद' ख. २. 'लीला स्निग्धजनस्य च' क-ख. ३. 'वद कामेन' स. ४. 'विक्रीड' ख.