पृष्ठम्:रामायणमञ्जरी.pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
काव्यमाला ।


ततोऽभिविग्नः शैलेन्द्रः क्षणं ध्यात्वा तमब्रवीत् ।
दुन्दुभे न क्षमस्तेऽहं नियुद्धे बलशालिनः ॥ ५९ ॥
किष्किन्धायां कपिपतिर्वाली नामास्ति दुर्मदः ।
युद्धश्रद्धां स ते वीर क्षणेन क्षपयिष्यति ॥ ६० ॥
इत्युक्तः शैलराजेन किष्किन्धामेत्य दुन्दुभिः ।
तदादिष्टमुपवनं व्यधाद्भग्नद्रुमं हरेः ॥ ६१ ॥
तत्कोपादथ तं वाली समाकृष्याचलोपमम् ।
व्यसुं चकार यस्यैतत्कङ्कालमिह दृश्यते ॥ ६२ ॥
कस्यचित्त्वथ कालस्य दुन्दुभेः पूर्वजः सुतः ।
स्त्रीहेतोर्वैरमापेदे मायावी नाम वालिना ॥ ६३ ॥
स रजन्यां समभ्येत्य किष्किन्धां युद्धलालसः ।
विदधे प्रलयाम्भोदघोषैर्भुवनसंभ्रमम् ॥ ६४ ॥
ततस्तूर्णं स निष्पत्य कोपाविष्टे ममाग्रजः
तं कालरूपिणं दैत्यं मया सह समाद्रवत् ॥ ६५ ॥
प्लवगेन्द्रं समालोक्य संरम्भावेगदुःसहम् ।
त्रस्तो दुद्राव मायावी चन्द्रालोकविलोकितः ॥ ६६ ॥
वालिनाभिसृतो वेगान्मया सह मनोजवः ।
तृणजालवृतं घोरं विवेश विपुलं वनम् ॥ ६७ ॥
मां निधाय बिलद्वारे पश्चाद्वाली विवेश च ।
तस्मिन्प्रविष्टे विवरं साग्रः संवत्सरो ययौ ॥ ६८ ॥
ततोऽहं शङ्कितो भ्रातृवियोगव्याकुलाशयः ।
अपश्यं रुधिरावेगं सफेनं निर्गतं बिलात् ॥ ६९ ॥
भ्रातरं निहतं मत्वा पतितः शोकसागरे ।
निष्प्रतीकारवैलक्ष्यप्राणत्यागोत्सुकोऽभवम् ॥ ७० ॥
ततोऽहं सचिवैरेत्य स्थितिविप्लवशङ्कितैः ।
राज्येऽभिषिक्तोऽस्मि ततो मुक्तभ्रातृवधव्यथः ॥ ७१ ॥