पृष्ठम्:रामायणमञ्जरी.pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७५
रामायणमञ्जरी ।


अधुना त्वदधीनं मे कृतं प्रणयवत्सल ।
अन्वेषणे सुररिपोर्यत्नस्तूर्णं विधीयताम् ॥ ४६ ॥
जाने तव हृतं राज्यं भ्रात्रा निकृतिचेतसा ।
तत्कृत्यसंविभागेन धन्योऽयं क्रियतां जनः ॥ ४७ ॥
एते ममाप्रतिहता निहतारातिमण्डलाः ।
कार्तिकेयवने जाताः शराः शिखरिभेदनाः ॥ ४८ ॥
इति रामवचः श्रुत्वा सुग्रीचो हर्षनिर्भरः ।
अभिनन्द्यास्य सौहार्दमुवाच प्रणयानतः ॥ ४९ ॥
तदैव संपदां सत्यं यातो भाजनतामहम् ।
यदैव मे गुणोदारः प्रसादाभिमुखो भवान् ॥ ५० ॥
आर्या तव स्थिरा मैत्त्री गुणैकग्राहिणी सताम् ।
खलानां दोषसाराणां प्रीतिः श्रीरिव चञ्चला ॥ ५१ ॥
धनं परिच्छदं भोगाञ्जीवितं सर्वमेव वा ।
प्रतिपन्नास्त्यजन्त्येव परार्थे विमलाशयाः ॥ ५२ ॥
कान्तिः सुधाकरस्येव दिनभर्तुरिव प्रभा ।
तवेयं सहजा सत्यं प्रणयिप्रतिपन्नता ॥ ५३ ॥
अभग्नविक्रमो वाली विश्रुतो भुवनत्रये ।
विकलाः किल संकल्पा यज्जये जयिनामपि ॥ ५४ ॥
स भिनत्ति महाशैलान्बलजिज्ञासया बली ।
अवमत्य मुहूर्तेन संध्यायां सप्त सागरान् ॥ ५५ ॥
दुःसहो महिषाकारः पुरा दुन्दुभिदानवः ।
जगच्चचार युद्धार्थी बलिनं नाससाद च ॥ ५६ ॥
स महोदधिमभ्येत्य ययाचे युद्धमुद्धतम् ।
तमूचे जलधिर्भीतो युद्धार्हस्ते हिमाचलः ॥ ५७ ॥
स तुषाराचलं गत्वा शृङ्गपातैः खुराञ्चनैः ।
विषमैः कायकाशैश्च चकाराकुलशेखरम् ॥ ५८ ॥


१. 'वत'ख. २. 'मन्ये' क-ख.