पृष्ठम्:रामायणमञ्जरी.pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
काव्यमाला ।


इत्युक्त्वा वानरपतिश्चारु वस्त्रं सभूषणम् ।
अदर्शयद्गुहान्यस्तं रामाय मणिभास्वरम् ॥ ३३ ॥
राघवोऽपि तदादाय विन्यस्य निबिडं हृदि ।
क्व प्रियेति विलप्योच्चैर्निपपात महीतले ॥ ३४ ॥
चिरेण संज्ञामासाद्य बाष्पसंरुद्धलोचनः ।
सोऽभवद्धननीहारपटच्छन्न इवांशुमान् ॥ ३५ ॥
स शोकामर्षसंतापपिशुनं निःश्वसन्मुहुः ।
सुग्रीवमूचे सुगतः कां दिशं दशकंधरः ॥ ३६ ॥
सोऽब्रवीन्न दिशं तस्य स्थानं वा पापकर्मणः ।
जाने किंतु तमन्वेष्टुमश्रान्तोऽयं ममोद्यमः ॥ ३७ ॥
गगने भुवि पाताले स्थलेऽथ सलिलेऽपि च ।
स्थितस्यापि दशास्यस्य मत्सेना पृष्ठपातिनी ॥ ३८ ॥
विक्रमस्यैव कालोऽयं शोकस्यावसरोऽत्र कः ।
त्वद्विधा यदि शोचन्ति तत्का मम धृतेर्गतिः ॥ ३९ ॥
क्व विपन्निम्गगावेगनिष्कम्पाः साधुभूधराः ।
क्व वैक्लव्यकुटुम्बिन्यो मोहध्वान्तनिशाः शुचः ॥ ४० ॥
विवेकविपदालोकमतयः शास्त्रलोचनाः ।
न मूढसुलभस्यास्य शोकस्यायतनं बुधाः ॥ ४१ ॥
स्वाधीने पौरुषोत्साहे त्वदधीने रिपुक्षये ।
आज्ञाधीनेषु चास्मासु कोऽयं चित्तविपर्ययः ॥ ४२ ॥
इति सुग्रीववचनं निशम्य रघुनन्दनः ।
मुखमुन्मृज्य वस्त्रेण धैर्येण च मनोमणिम् ॥ १३ ॥
उवाच तथ्यमुक्तोऽहं बन्धुना सुहृदा त्वया ।
कृतं नाम सुहृत्कार्यं कुर्वते यद्भवद्विधाः ॥ ४४ ॥
दुःखे विवेकवक्तारः सुखे विनयवादिनः ।
पुण्यभाजां भवन्त्येव सुहृदो हृदयप्रियाः ॥ ४५ ॥