पृष्ठम्:रामायणमञ्जरी.pdf/१८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७३
रामायणमञ्जरी ।


उपसृत्य स संप्राप्तो रामं प्रीतिपुरःसरः ।
दंष्ट्रांशुपुष्पितमुखं प्रोवाच रचिताञ्जलिः ॥ २० ॥
हनूमता मे कथिता गुणाभरणता तव ।
आत्मानं बहु मन्येऽहं सफलं त्वत्समागमात् ॥ २१ ॥
अहो नु जीवितं श्लाघ्यं ममेदं यद्भवान्मया ।
अभिगम्याधिगम्योऽपि स्वयं सख्यं समीहते ॥ २२ ॥
अयं मे प्रसृतः पाणिः पाणिमालम्बते तव ।
दृशोः परिणतं पूर्वं सौगन्धं संप्रवर्तताम् ॥ २३ ॥
सुग्रीवस्येति वचसा रामेण प्रीतिशालिना ।
पीडिते पाणिना पाणौ हनुमान्वह्निमादधे ॥ २४ ॥
सख्यं राघवसुग्रीवौ कृत्वा पावकसाक्षिकम् ।
प्रहृष्टौ मित्त्रलाभेन तस्थतुर्हृष्टमानसौ ॥ २५ ॥
इति सुग्रीवसख्यम् ॥ १ ॥
ततः प्रोवाच काकुत्स्थं प्रह्वः प्लवगपुंगवः ।
दंष्ट्रांशुभिर्गुणाबद्धां प्रीतिमामन्त्रयन्निव ॥ २६ ॥
प्रियावियोगतप्तस्य तव राघव दुःसहम् ।
दुःखं ममापि संचारि करोति हृदये पदम् ॥ २७ ॥
अधुना त्यज्यतां शोकः प्रत्ययो यदि मद्रािम् ।
विपुले स्कन्धपीठेऽस्मिन्भारोऽयं मे निधीयताम् ॥ २८ ॥
सत्यं सीतां तव गिरा रसातलगतामपि ।
उद्धरामि हतारातिर्वराह इव मेदिनीम् ॥ २९ ॥
सीता दृष्टा हृतास्माभिर्दशास्येन विहायसा ।
क्रोशन्ती राम रामेति करुणं लक्ष्मणेति च ॥ ३० ॥
चतुर्भिः सचिवैः सार्धं स्थितं मां वीक्ष्य सा गिरौ
मुमोच रुचिरं वासो माल्यमाभरणानि च ॥ ३१ ॥
रुचिरा रावणस्याङ्कात्स्रस्तेयं भूषणावलिः ।
चक्रे नीलाभ्रसंदर्भभ्रष्टचक्रायुधभ्रमम् ॥ ३२ ॥