पृष्ठम्:रामायणमञ्जरी.pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६३
रामायणमञ्जरी ।


मच्चञ्चुचरणोत्कृत्तं तस्यै तच्छत्त्रमुत्तमम् ।
रणोपकरणं चान्यद्दीप्तरत्नविभूषितम् ॥ १०५३ ॥
इति तस्याकुलां श्रुत्वा रुधिरोद्गारगद्गदाम् ।
गिरं रामोऽभवत्क्षिप्रं वज्रेणेव विदारितः ॥ १०५४ ॥
स परिष्वज्य रक्ताढ्यं सीतार्थे क्षपितायुषम् ।
रुरोद सानुजः शोचन्पितुर्मित्रं जटायुषम् ॥ १०५५ ॥
हा सीताकरुणाक्रन्दश्रुतिसंत्यक्तजीवित ।
हा सत्त्वसागरोदारधैर्यमानकुलाचल ॥ १०५६ ॥
वनवासः प्रियादुःखं तत्रापि त्वद्वधश्रुतिः ।
अहो मे भाग्यहीनस्य वज्रपातपरम्परा ॥ १०५७ ॥
इत्युक्त्वा मोहमगमत्क्षणं रामः सलक्ष्मणः ।
उद्गच्छत्प्राणशेषेण वीक्ष्यमाणो जटायुषा ॥ १०५८ ॥
स शनैर्लब्धसंज्ञेन लक्ष्मणेन विबोधितः ।
सीताहरणवृत्तान्तं पप्रच्छ खगशेखरम् ॥ १०५९ ॥
पृष्टो गृध्रपतिस्तेन संस्तभ्य विषमव्यथाम् ।
उवाच सा हृता राम रावणेन विहायसा ॥ १०६० ॥
वृन्दो नाम मुहूर्तोऽसौ यस्मिन्सीतां जहार सः ।
हर्ता विपद्यते तस्मिन्हृतमासाद्यते पुनः ॥ १०६१ ॥
अवश्यं लप्स्यसे सीतां निहत्य युधि राक्षसम् ।
अतः परं न शक्नोमि वक्तुमुद्गतजीवितः ।
हेमाभान्रश्मिमालाङ्कान्भ्रान्तान्पश्यामि पादपान् ॥ १०६२ ॥
इत्युक्त्वा क्षितिसंलीनग्रीवो विक्षिप्तविग्रहः ।
प्रसार्य चरणौ प्राणानुत्ससर्ज तपोनिधिः ॥ १०६३ ॥
तसिन्वीरे दिवं याते सिद्धविद्याधरामराः ।
पुण्यपुण्यार्जितां तस्य प्रशशंसुः शरण्यताम् ॥ १०६४ ॥
अस्मिन्नसारे संसारे विनाशेऽवश्यभाविनि ।


१. 'सामर्थ्यं' शा०