पृष्ठम्:रामायणमञ्जरी.pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
काव्यमाला ।


व्यक्तं मामवमन्यन्ते मृदुं देवाः कृपास्पदम् ।
कथयन्ति न ये सीतां सर्वज्ञा लोकसाक्षिणः ॥ १०४१ ॥
एषोऽहं त्यक्तमर्यादः शनैः शकलिताचलम् ।
करोमि ध्वस्तविबुधं त्रैलोक्यं सचराचरम् ॥ १०४२ ॥
अकिंनरमगन्धर्वमपिशाचमराक्षसम् ।
अपन्नगमभूतं च करिष्याम्यखिलं जगत् ॥ १०४३ ॥
इति ब्रुवाणः सावेगं शोकक्रोधाग्नितापितः ।
विश्वसंक्षयसज्जोऽभूद्धनुराकृष्य राघवः ॥ १०४४ ॥
इति रामप्रलापः ॥ २८ ॥
आर्य संहर कोपाग्निमिति भ्रात्रा विबोधितः ।
सोऽपश्यदग्रे रक्ताक्षं लूनपक्षं जटायुषम् ॥ १०४५ ॥
तं भूधरमिवास्फारं गृध्रमालोक्य भूधरे ।
उवाच रामः कुपितश्चापमाकृष्य लक्ष्मणम् ॥ १०४६ ॥
गृध्ररूपमिमं घोरं पश्य लक्ष्मण राक्षसम् ।
अनेन नूनं सा तन्वी भक्षिता हरिणेक्षणा ॥ १०४७ ॥
इत्युक्त्वा दुःसहक्रोधः संधाय धनुषि क्षणात् ।
क्षुरप्रं वज्रवदनं स गृध्रपतिमाद्रवत् ॥ १०४८ ॥
तमापतन्तमाकृष्टशरं दृष्ट्वा विहंगमः ।
अल्पावशेषजीवोऽपि क्षामस्वरमभाषत ॥ १०४९ ॥
राम राम न नामाहं पापकर्मा निशाचरः ।
गृध्रोऽहं ते पितुर्मित्त्रं जटायुर्वरुणात्मजः ॥ १०५० ॥
सा प्रिया जीवितसुधा नयनानन्दकौमुदी ।
हृता तव दशास्येन प्राणाश्च मम संगरे ॥ १०५१ ॥
त्रातुं समुद्यतं सीतां गृध्रं मां दशकंधरः ।
न्यवधीद्युधि विध्वस्तरथसारथिकार्मुकः ॥ १०५२ ॥


१. 'मृत्युं देवाः क्षमास्पदम्' शा०. २. 'शरैः' स्यात्. 'त्यक्तमर्यादोऽहं शरैरचलं पर्वतमपि शकलिता खण्डं कर्ता' इति व्याख्या भवेत्. ३. 'शकलितः परम्' क. ४. 'ममास्तु विशिखैर्जगत्' शा०.