पृष्ठम्:रामायणमञ्जरी.pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
काव्यमाला ।


पुण्यभाजां भवत्येव परार्थे जीवितव्यथा ॥ १०६५ ॥
रामोऽपि तस्य संस्कृत्य शरीरं शोकविह्वलः ।
धन्याय प्रददौ तस्मै जह्नुकन्याजलाञ्जलिम् ॥ १०६६ ॥
इति जटायुसत्क्रिया ॥ २९ ॥
गाहमानो वनं रामः सीताविरहमोहितः ।
करिणीविरहक्षामः करीव प्रययौ शनैः ॥ १०६७ ॥
सोऽपश्यन्मार्गमावृत्य भूधराकारमुत्थितम् ।
विवृतास्यभुजस्तम्भनिजप्राज्यभुजद्वयम् ॥ १०६८ ॥
कवन्धमन्धतमसां वासबन्धुमकन्धरम् ।
कण्ठकोत्कटरोमाग्रसूचिव्याप्तोग्रविग्रहम् ॥ १०६९ ॥
तं दृष्ट्वा दानवं घोरं मूर्तं दुःखमिवात्मनः ।
बभूव सानुजः क्षिप्रं रामो विस्मयनिश्चलः ॥ १०७० ॥
घोराजगरदीर्घाभ्यां भुजाभ्यां रामलक्ष्मणौ ।
आचकर्ष स पातालगुहाकारोदराननः ॥ १०७१ ॥
वक्त्रे क्षिप्रं समाकृष्टौ तौ तेन बलिनौ बलात् ।
अचलाविव निष्कम्पो जग्मतुस्तस्य नान्तिकम् ॥ १०७२ ॥
कौ युवामिति तौ तेन पृष्टौ विस्मयचेतसा ।
नामजातिकुलोपेतं निजवृत्तान्तमूचतुः ॥ १०७३ ॥
स तच्छ्रुत्वाब्रवीच्चित्रं पापानां निर्विवेकता ।
स्त्रीसखस्य वने वासो लोके लज्जाकरः परम् ॥ १०७४ ॥
पशुतुल्यौ मया मूर्तौ दिष्ट्या प्राप्तौ वने युवाम् ।
अन्यत्र भोजनात्सत्यं नोपयुक्तौ भवद्विधौ ॥ १०७५ ॥
जलार्द्रदुन्दुभिध्वानं श्रुत्वैव तस्य तौ वचः ।
तदुत्तरार्हयोर्दृष्टिं चक्रतुः करवालयोः ॥ १०७६ ॥
तस्याकर्षणसज्जस्य स्कन्दमूलोपहासिना
चिच्छेद दक्षिणं रामो भुजं सव्यं च लक्ष्मणः ॥ १०७७ ॥


१. 'विप्लवः' शा. २. 'उदरास्यं शिलास्तम्भनिभ' शा०. ३. 'विस्मित' ख. ४. 'श्रुत्वैतत्तस्य तौ वचः' शा०. ५. 'त्तरं तयोः' क.