पृष्ठम्:रामायणमञ्जरी.pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
काव्यमाला ।


ततो रामगिरा दत्त्वा स तदस्त्राय लोचनम् ।
चक्षुषा रक्षितस्तेन काणः काको ययौ जवात् ॥ १४९ ॥
इति काकाक्षिशातनम् ॥ ३॥
अथोच्चचार गम्भीरगजगर्जितमन्थरः ।
मन्थाद्रिजलधिधीरो घोरः पंटहनिःस्वनः ॥ १५० ॥
हयहेषाविशालेन घनघोषानुकारिणा ।
कुपितास्तेन शब्देन समुत्पेतुर्मगेश्वराः ॥ १५१ ॥
स ययौ विपुलः शब्दो विद्याधरमहीभुजाम् ।
त्रस्तकान्तापरिष्वङ्गहर्षपीयूषवर्षताम् ॥ १५२ ॥
उच्चैरुच्चकुचाभोगविनश्यत्त्रिवलीयुताः ।
किमेतदिति संभ्रान्ताः किंनर्यो ददृशुर्दिशः ॥ १५३ ॥
अकाण्डे कोऽयमुच्चण्डप्रलयारम्भविभ्रमः ।
इत्येव चुक्रुशुस्तत्र पक्षिकोलाहलैर्द्रुमाः ॥ १५४ ॥
सैन्यसंमर्दपिशुनं शब्दमाकर्ण्य राघवः ।
तरुमारुह्य पश्यैतदिति प्रोवाच लक्ष्मणम् ॥ १६५ ॥
सालं पुष्पितमारुह्य सौमित्त्रिस्तस्य शासनात् ।
ददर्श चामरच्छत्त्रच्छन्नां भरतवाहिनीम् ॥ १५६ ॥
निगीर्णा इव जीमूतसंघातमलिनैर्गजैः ।
विलोक्य सर्वाः ककुभो रामं सौमित्त्रिरब्रवीत् ॥ १५७ ॥
अयं शस्त्रास्त्रकल्लोलसुभटग्राहघस्मरः ।
सैन्याम्बुधिरपर्याप्तः कानने परिसर्पति ॥ १५८ ॥
मत्तो विभवमानेन नूनं भरत आगतः ।
यदसौ दृश्यते दूरात्कोविदारो रथे ध्वजः ॥ १५९ ॥
प्राज्यं राज्यमवष्टभ्य कैकेयीतनयः स्वयम् ।
कण्टकोन्मूलनायैव नूनं त्वां योद्धुमागतः ॥ १६० ॥


१. 'ध्वानधीरः स्यन्दन' ख.