पृष्ठम्:रामायणमञ्जरी.pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
रामायणमञ्जरी ।


अहो बतातिवक्रेण नयेनामिषदर्शिना ।
बडिशेनेव शफरः कृष्टोऽयं न भविष्यति ॥ १६१ ॥
ऐश्वर्यस्थैर्यकामस्य मद्विसृष्टाः प्रमादिनः ।
भवन्त्वस्योपदेष्टारो निपातगुरवः शराः ॥ १६२ ॥
श्रुत्वेति कोपतप्तस्य लक्ष्मणस्याग्रजो वचः ।
उवाच भरते शङ्कां सौमित्त्रे मा वृथा कृथाः ॥ १६३ ॥
भक्तिमान्भरतो नित्यमस्मासु विशदाशयः ।
धीरस्य तस्य सद्वृत्तं न नाम परिवर्तते ॥ १६४ ॥
कुले महति जातानां धीमतां वृद्धसेविनाम् ।
न भवन्ति विकारिण्यः संपदो हि महात्मनाम् ॥ १६५ ॥
प्राप्तो द्रष्टुमसावस्मान्न वाच्यः परुषं त्वया ।
विकारेऽप्यपरित्राणमाधुर्यं हि सतां वचः ॥ १६६ ॥
राज्ये यदि तवाप्यस्ति कोऽप्यादरलवः स्वयम् ।
ममाज्ञया त्यजत्येव भरतस्तदसंशयम् ॥ १६७ ॥
राघवेणेत्यभिहिते गुरुलज्जानताननः ।
अयाचतेव विवरं प्रवेष्टुं लक्ष्मणः क्षितिम् ॥ १६८ ॥
अवतीर्य स्वशालाग्रात्पार्श्वे भ्रातुरधोमुखः ।
न्यषीददिति तापान्तश्चिन्तयन्वाक्यलाघवम् ॥ १६९ ॥
इति लक्ष्मणकोपः ॥ ४ ॥
भरतोऽपि निजां सेनां विनिवेश्य यथोचितम् ।
सुमन्त्रशत्रुघ्नसखः प्रससर्पाग्रजोत्सुकः ॥ १७० ॥
जननीजनमादाय भवता मम पृष्ठतः ।
आगन्तव्यमिति प्राह सर्वमिष्टमभाषत ॥ १७१ ॥
उपसृत्याथ रुचिरं स दृष्ट्वा भ्रातुराश्रमम् ।
लम्बमानायुधधरं बभूवोद्वाष्पलोचनः ॥ १७२ ॥
सानुजं राममालोक्य दूराच्चीरजटाधरम् ।
मत्वा कारणमात्मानं विललापाश्रुगद्गदः ॥ १७३ ॥