पृष्ठम्:रामायणमञ्जरी.pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
रामायणमञ्जरी ।


रामस्य विपुलं वक्षः क्रान्तकान्ताविशेषकम् ।
कौस्तुभाभरणोद्भासिकैटभारेरिवाबभौ ॥ १३६ ॥
सबालकेसरदलैः कुटिलामलकावलीम् ।
अलंचकार वैदेह्याः पुलकालंकृताकृतिः ॥ १३७ ॥
शिलातलं परित्यज्य करेणालम्ब्य जानकीम् ।
स चचार वनान्तेषु करीव करिणीसखः ॥ १३८ ॥
रागिणामिव दीप्तेन ज्वलितं स्मरवह्निना ।
रक्ताशोकवनं प्राप्य गतशोको ननन्दतुः ॥ १३९ ॥
मिथो विहितनेपथ्यौ विकोशाशोकशेखरैः ।
तौ दम्पती विवभतुः कुसुमायुधनाटके ॥ १४० ॥
विहृत्य सुचिरं तत्र जग्मतुस्तौ स्वमाश्रमम् ।
पुरा प्रत्युद्गतेनैत्य लक्ष्मणेनाभिनन्दितौ ॥ १४१ ॥
मांसेन कृष्णसाराणां क्षतानां लक्ष्मणेषुभिः ।
बलिशेषेण वैदेही पत्युर्भोज्यमकल्पयत् ॥ १४२ ॥
मांसशेषस्य रक्षायै समादिष्टा प्रियेण सा ।
पक्षतुण्डनखाघातैः काकेनोद्वेजिता भृशम् ॥ १४३ ॥
इतस्ततो विलुलिता भ्रश्यत्कौशेयकांशुका ।
प्रीतये साभवद्भर्तुर्दृष्टार्धकुचकुड्मला ॥ १४४ ॥
काकेन कोपिता तीव्रं सा दष्टाधरपल्लवा ।
प्रियं प्रणयगर्भेण चक्षुषा क्षणमैक्षत ॥ १४५ ॥
ततः प्रियापरिभवादस्थानेऽप्यात्तसंभ्रमः ।
इषीकामभिमन्त्र्याशु चिक्षेप रघुनन्दनः ॥ १४६ ॥
संतर्जितोऽप्यसंत्रासः पक्षी लब्धवरोऽथ सः ।
अस्त्रेणाभिसृतो वेगाद्बभ्राम भुवनत्रयम् ॥ १४७ ॥
अनवाप्तपरित्राणः स गत्वा तु तपोवनम् ।
पादपीठार्पितशिरा रामं शरणमाययौ ॥ १४८ ॥