पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः।

नत्वा श्रीरामचन्द्रं पवनतनुभवो व्याहरद्वाचमुच्चै- र्दृष्टा सीता प्रसादात्तव धरणिपतेऽभञ्जि बन्या निकामम् । दग्धा लङ्का समग्राऽवधि नृपतनयस्तुर्यसैन्येन साकं जेतव्या शीघ्रमेव प्लवगबलवता श्रीमता राक्षसीपूः ॥६५॥ इत्युदीर्य स समीरनन्दनः सीतयाऽर्पिततमं शिरोमणिम् । प्रज्वलन्तमददात् प्रतीतये राघवाय स गिराऽऽर्चयत्कपिम् ॥ ६६ ॥ इति श्रीरामविजये महाकाव्ये श्र्यूङ्के श्रीरूपनाथोपाध्यायकृतौ सीतादर्शनो नाम अष्टमः सर्गः ॥ ८ ॥