पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

रघूत्तमोऽवोचदथो कपीशं लङ्कामलं कामयते हृदेतुम् । विधीयतां मित्र भवद्भिरत्र प्रयाणकालोचितयत्न आशु ॥१॥ हनूमता यत्कृतमद्य कार्यं करिष्यते नैव कदाचिदन्यैः । अलङ्गि सिन्धुर्यदलङ्घ्यपारः पुरी च लङ्काऽनलसात्कृता यत् ॥ २ ॥ अहं च सौमित्रिरयं त्वमेते मरुत्सुतेनैव सुरक्षिता हि । अतोऽत्र किं देयमिति ब्रुवस्तं रामः समालिङ्गितवान् कपीशम् ॥ ३ ॥ ममाक्षि दक्षं स्फुरति प्रकामं स्फुटं भविष्यत्यचिरेण कार्यम् । तवापि का मित्र विचारणाऽस्ति वदेति सुग्रीव उवाच चोक्तः ॥ ४ ॥