पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ।

नीलर्क्षराजद्विविदास्तथाऽन्ये सुषेणतारौ पवनः प्रयान्तु । पुरो गवाक्षो गजमैन्द्रकीशौ पार्थद्वये थान्तु वलीमुखाद्याः ॥५॥ नलो हनूमज्जनकः प्रयान्तु पृष्ठेन काम रभसो हरीशाः । आरुह्य वातात्मजमाशु गच्छ तवानुजो वालिसुतं च यातु ॥ ६ ॥ इतीरिताः सूरसुतेन कीशाः कीनाशतुल्याः रिपुमर्दनेषु । रेजुश्चलन्तोऽचलदीर्घदेहाः समीरवेगाः समरप्रगल्भाः ॥ ७ ॥ आरूढकीशो रघुनन्दनोऽभात् मेरुस्थनीलाद्रिरिवाबभासे । सौमित्रिणाऽधिष्ठितवालिसूनुः शृङ्गस्थशुक्लागसुमेरुतुल्यः ॥ ८ ॥ शाखामृगाच्छादितभूमिभागः समासदत्सागरतीरमाशु । रामश्चलन् वायुसुताधिरूढो द्वितीयरत्नाकरवद् बलौघैः ॥ ९ ॥