पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

रावणोऽपि निजमन्त्रिणोऽबदत् त्वेककेन कपिना विनाशितम् । काननं जनकजा विलोकिता भस्मसादकृत पूर्गतं पुरात् ॥ १० ॥ ऊचिरे त्वथ घटोदरादयो वानरोऽयमिति किं करिष्यति । नः प्रमादवशतो गतोऽभयो नान्यथा कथमपि ब्रजेदितः ॥ ११ ॥ इन्द्रजेतृतनयोऽब्रवीत्ततं त्वाज्ञया जगदमर्त्यवानरम् । कर्तुमीहितमिदं त्वदीयया मामकीनमिति दुःखितं क्षणात् ॥ १२ ॥ कुम्भकर्ण इति वाचमुक्तवान् मैथिली यदहरद्भवानयम् । दुर्नयोऽस्य फलितं फलं महत बोभुजीतु सतनूजबान्धवः ॥ १३ ॥ जानकीं यदहाद्विमूढधी- रहसोऽस्य शमनं तदर्पणम् । स्वापतेयसहितं कनीयसे- त्युक्त आह दशकन्धरः स्म तम् ॥ १४ ॥