पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

शानवोऽसि मम निःसराधनन् पत्तनात् तमवधीत् कुधा पदा । सोऽप्यनाइरिषदेन वर्मना मन्त्रिणश्चतुर आदधत्त्तः ॥ १५ ॥ अन्तरिक्षग उवाच राघवं लक्ष्मणाग्रज बिभीषणोऽस्मि सः। अग्रजेन चरणोन ताडितं. विद्धि मां शरणसागतं तव ॥ १६ ॥ राघवेण तदुदीरितेन तं चानिनाथ कपिभिर्बिभीषणः । आधिपत्य अधिलङ्कमादरा- लक्ष्मणेन सहसाऽभिषेचितः॥ १७ ॥ रामसैन्यमबलोकितुं शुकं प्राहिणोद्दशमुखोऽनु सारणम् तौं गतौ हरिपदेन वर्मना बानरैश्च विधृतौ प्रताडितौ ॥ १८ ॥ राम राम परिरक्ष वानरा- द्वादिनाविति निवार्य वानरान् । दर्शनाय हनुमान प्रणोदितो राघवेण कपिमल्सेनयोः ॥ १९ ॥