पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

तौ निधाय तलयोः स्वहस्तयो- दर्शितो निजबले हनूमता। मोचितौ रघुवरेण शापतः कुम्भजन्मजनिताद स्वसैन्यतः॥ २० ॥ तौ समेत्य दशकन्धरं बलं सन्निवध समतीतलयकम् । प्राप्य काननमथो तयोः शुको मौनधर्ममनु सारणो. ययौ ॥ २१ ॥ समुद्रं समालोक्य रामोऽविलय करणाग्रहीञ्चापवाणं सकोपः । पदेनैव पारं नयान्चेष सैन्य बदन्नीदशी कीशभूफाय वाचम् ॥ २२ ॥ क्रुधा रक्तनेत्रं धनुर्बाणहस्तं क्षितीशं सन् वारधीशो निरीक्ष्य । नृरूपं विधायाशु तत्पादपझे निपत्य प्रकम्प्याबभाषे विनीतः ॥ २३ ॥ जडत्वेन सर्गे पुरा निर्मितोऽहं त्वयैवेश सीतापते त्वां जडत्वात् । न जाने क्षमस्व प्रतारे प्रकार वदाम्येष तेनैव गन्तासि पारम् ॥ २४ ॥