पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तदीयापकाराकुलर्षिप्रदत्तै- तदास्पृष्टपाषाणनीरच्छदत्वा । नलरसेन संस्पृष्टापाषाणसः प्लवङ्गाहर्बध्यतामत्र सेतुः ।। २५ ॥ हसन् रामचन्द्रोऽब्रवीत् सिन्धुनाथं मदीयः शरो निष्फलो नैव जातु । मदीयप्रदेशस्थ आभीरवृन्दे शरः पात्यता क्रूरकर्मण्यधीश ॥ २६ ॥ ततः प्रार्थितः पत्रिणा सिन्धुनैवं तमाभारवर्ग निपात्याधितीरें । शिवं विनदावानलं लोकशोका- द्विदम्भोलिमास्थापयामास रामः ॥ २७॥ कपीशा निदेशस्थिता राघवस्य समानीय शैलान् परे गण्डौलान् । नलेनाशु ते स्पर्शयित्वा गभीरे समाचिक्षिपुस्तायधेस्तोयमध्ये ॥ २८ ॥ अनेकैर्दिनीननाथो हरीन्द्रे- बंबन्धेश्वरः सेतुमम्भोधितोये । पथा तेन सेनामसङ्ख्यामधृष्यों समुत्तारयामास पारे पयोधेः ॥ २९ ॥