पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

समाहूय सुग्रीवसुग्रप्रतापः पति रक्षसां मन्त्रदक्षं विनीतम् । तथा जाम्बवन्तं समाजे महान्तं बभाषे बदन्त्वत्र किं कर्तुमिष्टम् ॥ ३० ॥ प्रयात्वङ्गदो रावणं बोद्धुकामः पुरीं राम लङ्कामशङ्क प्रवक्ता । इति प्रार्थितस्तैविनीतैनयजे- स्तथा तत् स कामंचकाराशु रामः॥३१॥ अथाङ्गदोऽगादधिलङ्कमायतां सभां समुत्प्लुत्य सरावणादिकाम् । विलोक्य रक्षःपतिना स भाषितः कुतश्च कस्येति च कस्त्वमागतः ॥ ३२ ॥ समुद्रतीराज्जनकात्मजापते- हितैषिदूतस्तनयोऽस्मि वालिनः अरेविमूढोऽसि पितुर्विघातिनो ऽभवश्चरस्तस्य न जीवधातुकः ॥ ३३ ॥ महामते त्वत्तनयस्य घातिनो ग्रहीष्यसे त्वं त्वचिरेण वैरिताम् । इतीरितां वालिसुतेन भारती निशम्य गर्वान्तरितामुवाच सः ॥ ३४॥