पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

न मे सुरेशादपि पाशिनो न मे न मे कुबेरादपि मे न कालतः । न वायुतो मे न च वह्नितो भयं न चामरेभ्यः किमु वानरात् नरात् ॥३५॥॥ मदीयसेनासु न गण्यते कपिः समेत्य दग्ध्वा नगरीं स तावकीम् । निहत्य पुत्रं च विनाश्य काननं गतः पुरः पश्यत एव तेऽभयः ॥ ३६ ॥ प्रदृश्यतामेष कपिः समागमत् बचो निशम्योति प्रहस्तकोऽङ्गदम् । स मुष्टिनैकेन शिरस्यहनमुं पपात कृन्ताद्धितरुयथैव सः ।। ३७ ।। ततोऽङ्गदो भूमितले निजं पदं निधाय लकेशमशङ्कितोऽब्रवीत् । पदं समुत्थापय चेहलं न चेत् . प्रयच्छ रामायः सवित्तजानकीम् ॥३८॥ ततः समुत्थाय स रक्षसां पतिः पदं समुत्थापयति स्म बाहुभिः । चचाल चेलुश्च धरा धराधराः न वालिपुत्रस्य पदं मनागपि ॥ ३९ ॥ १३रा