पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1.2.1 रामविजये।

कृतप्रयलस्य पप्रचालने दशाननस्यानमतोऽपतद्भुवि । किरीटमादाय तदद्भुतं कपि- विहायसाऽभ्येत्य विभोरथार्पयत् ॥ ४०॥ किरीटमादाय करेण राधबो विभीषणस्याथ शिरस्यधादरेः । गुरुं समुत्तार्य दशाननस्य किं पुरो भरं मित्रशिरस्थरोपयत् ॥ ४१ ॥ रघुकुलपनिदेशवर्तिभिस्तैः प्लवंगवरैः पुरदुर्गमुग्रवीयः । युवनृपकषिराजजाम्बवाद्धि- रिव रुरुधे मधुमक्षिकासमूहैः ॥ ४२ ॥ अथ विभलमतिबलं स्वकीयं व्यधित चतुर्विधमेव गोपुरेषु। सुरपतियमपाशिराजराज- प्रभुषु दिशासु नखाइमपादपास्त्रम् ॥४३|| युवनृपतिमथानु जाम्बवन्तं पवनसुतं च सहात्मनाऽधिपं सः । अकृत कृतिचतुर्विधे बलौघे हरिरजनीचरलक्ष्मणानुगम्यः ।। ४४ ॥