पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

हरिसुतसुतमाल्यवत्प्रहर्त्रोः रणमभवत्तुमुलं दानपातम् । अथ सुवि विनिपात्य बालिसून रजनिचरं शिथिलं पुनर्भवेन ॥ ४५ ॥ उरसि परिविदार्य वीर्यशाली निशिततरेण मुमोच मङ्गु वीरः । तदनुचरबलं रदैः पराप्रैः खरनखरैर्विलयं निनाय चायम् ॥४६॥ घटजककुभि जाम्बवान् प्रजढे सबलमहोदरवीरमाशु वीरः। करतलनखतीक्ष्णदन्तघातैः कुलिशधरः कुलिशैरिवादिवर्गम् ॥ १७ ॥ वरुणककुभि मेघनादचाप- प्रहितशिलीमुखषट्पदैरजलाम् । पवनजमुखपद्ममध्यरक्त-- रसविभवः परिपीत आजिमध्ये ॥ ४८ ॥ अगणितवृषजेतृबाणवृष्टिः पवनसुतोऽस्य रथं पदा रुरोज । तदनुगरजनीचरान्निहत्य पुनरुपसृत्य जधान जत्रुदेशे ॥ ४९ ।।