पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

सुरपतिजितमाशु मुष्टिना तं धरणितले स पपात मूर्छितोऽसौ । पुनरपि न जघान तं हनूमान् अपरकराद्धि किलास्य मृत्युरास्ते ॥५०॥ धनपतिदिशि गोपुराद्दशास्यो बहिरुरुसैन्ययुतः समेत्य रामम् । अनुजहरिबिभीषणादियुक्तं विशिखचयैर्निशितैस्तिरोधिताग्र्यैः ॥५॥ रघुपतिरविरस्त्रभानुजालै- ररिशरजालतुषारमाशु भित्त्वा । दशदशविशिखैर्जधान तीक्ष्णैः समिति तदा किल चैकमेकमेव ॥१२॥ अथ दशवदनोऽनलास्त्रमुग्रं व्यमुचदनेकपतत्समन्ततोऽर्चिः । अशमयदतु तद् रघुप्रवीरः सलिलमुगस्त्रवरेण वारुणेन ।। ५३ ॥ अमुचदथ समीरणास्त्रमेषः प्रशममिदं पवनाशनास्त्रकेन अनयदतितरां महास्त्रवेत्ता रघुतिलकः समिताववन् प्लवङ्गान् ॥५४॥