पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः

अथ पशुपतिदेवताकमस्त्रं त्रिदशरिपू रघुपुङ्गवे ससर्ज। अशमयदथ तेन वैष्णवेन कुशलतरेण तदस्त्रमाशु रामः ॥ ५५ ॥ सुरपतियमनैर्ऋतादिकास्त्रं सुररिपुणा प्रहितं स कौशलेयः । अशमयदथ वैष्णवेन भूयः खलु तदिदं सकलास्त्रनाशकेन ॥ ५६ ।। गजगवयगवाक्षमैन्दनील- द्विविदसुषेणनलादिवानरोधैः । उपलविटपिभिः प्रहारदः- निधनमनीयत रक्षसामनीकम् ।। ५७ ।। अथ सुरपतिजेतृलक्ष्मणाभ्यां विशिखवरैः शलभैरिवान्धकारम् । जगति घनतरैरकारि तीक्ष्णै- र्वलयितचापविनिर्गतैरभीक्ष्णम् ॥ १८ ॥ असृजदथ भुजङ्गपाशमुग्रं घननिनदः किल बन्धनाय तस्य । अशमयदथ गारुडास्मतोऽमुं विशिखचयैर्निजघान तं च वीरः ॥ ५९॥