पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये‌।

स्थतुरगधनुः संयन्त बाणै- रभिनदुरः स च पत्रिणा सुरारेः । दशवदनसुतः पपात भूम्याम् असुरपतेः खलु सम्पदा सहैव ।। ६० ।। अथ रथतुरगप्रवेशनासा- सुषिरनिरुद्धमरुत् घटश्रवा हि । वरशयनतलात्समुत्थितः स- नबदसौदशकन्धरं शयालुः ॥ ६१ ॥ शयनसुखविनाशनं किमर्थं कृतमिति तं निजगाद रावणोऽपि । जनकनृपसुतानिमित्ततो मे तनुजतदात्मजभृत्यसङ्घनाशम् ॥ ६२॥ अकृत नरवरः सहायकीशो जहि तमरं परिपन्थिनं सपक्षम् । कृतमनुचितमस्य पाकभोगं कुरु बत सोऽप्यवदत्तदेति कामम् ॥६३ ।। इति वचनमुदीर्य कुम्भकर्णः सपदि ययौ समराय रामचन्द्रम् । कति विटपमृगान् पदाऽवमृद्गन् करगतवानरसैन्यमाशु जक्षत् ॥ ६४ ॥