पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०३

धरणिधरमिवाऽपरं चलन्तं महदपि सैन्यमपासरत् कपीनाम् । प्रसरतरकर विदीर्णवक्र समभिसरन्तमुदीक्ष्य कुम्भकर्णम् ॥६५॥ गजगवयमुखान मुखे कपीशान अकिरदसौ चरणेन काँश्च मृगन् । श्रवणनयनतस्तथाऽस्य नस्त- श्वपलतराः कंपयो बिनिर्गतास्ते ।।६६ ॥ विहितनतिरहं बिभीषणस्ते स बहु मया प्रतिबोधितोऽग्रजोऽपि । नहि बहु मनुते स्म मदचोऽसौ विधिहतभाग्यनरो विरुद्धकारी ॥ ६७ ॥ चरणतलगतं निराचकार प्रणतिपरं स मां पदा प्रताड्य । तदवधि रघुनाथदासदास्य सममिलषन् समुपाजगाम मान्य ।।६८ ॥ अवरजममिवीक्ष्य वाचमुच्चैः त्वमपसरापसरेत्युवाच वीरः। खलु मम परापरज्ञताऽस्ति त्वमसि कुले सलिलप्रदोऽवशिष्टः ॥६५॥