पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। अहमपि रघुवंशकेतुबाणा- बलिसुरसिन्धुवगाहपूतकायः । गतिममरदुरालभां लभेय प्रतिहतकिल्बिषराशिराप्तकामः ॥ ७० ॥ इति गदितबचाः स कुम्भकर्णः सतस्करोऽभिससार रामचन्द्रम् । गिरिरित्र बृहदेकशृङ्ग आजा- बवनितलं परिकम्पयन् पदेन ।। ७१ ॥ अभिमुखपततोऽपसव्यबाहुं रजनिचरस्य समाच्छिनत् स रामः । द्रुततरमिषुणा यथेक्षुकाण्ड द्विरदकरोपममर्धचन्द्रकेन ।। ७२ ॥ पुनरभिसरतोऽस्य सव्यबाहुं । धृततरुमाच्छिन्नदाक्षगोचरस्य । कृतपटहरवस्य रामचन्द्रः कुशलतरस्तिलकाण्डवच्छरेण ॥ ७३ ॥ पुनरतिरभसस्य संमुखस्य रजनिचरस्य मुखं दुरीसमानम् । शितशरनिचयैश्चकार पूर्ण शरधिमिवापरमाशु कौशलेयः ॥ ७ ॥