पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

प्रियतमशयनस्य राक्षसत्वं द्विजवरशापवशाद्गतस्य रामः । परमकरुणया महाशयं सः व्यतरदरं विशिखैरमुष्य तीक्ष्णैः ।। ७५ ।। अथ दशवदनो निकुम्भिलायाम् अगमदजय्यरथं शुचेः समीप्सुः । हवनसमुचितप्रकारवत्याम् अनलमनल्पहविर्भिराशु यष्टुम् ॥ ७६ ।। उदगमदथ धूमराशिरने- र्देशवदनप्रहुतैः समित्तिलाद्यैः । अवदनुविलोक्य तं यवीयान् दशरथसूनुमिदं विशेषदृश्वा ॥ ७७ ॥ यदि हवनमिदं समापितं स्यात् दशवदनेन भवेदसावजय्यः । रघुवर कुरुतात्तदन्तरायं कपिभिरनर्थकरैरनल्पवीयः ।। ७८ ।। इति निगदित एव रामचन्द्रो युवनृपतिं गदति स्म गच्छ वत्स । कुरु झटिति तदन्तरायमेभिः कपिभिररेर्हवनस्य बालिसूनो ॥ ७९ ॥ १४. रा०