पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

अहमहमिकया गतैः प्लवङ्गैः सह स च वालिसुतो जगाम वीरः । अरिहवनविनाशनाय सद्यः कृतकरतालरवैः प्लवद्भिरुग्रैः ।। ८० ॥ युवनृपतिरथो निकुम्भिलास्थं विटपमृगैः समुपेत्य रावणं तम् । दशनकररुहा‌ङ्घ्रिपैः प्रताड्य क्रतुमकरोन्निहतं वलीमुखाग्र्यः ॥ ८१ ॥ अथ सवसदनात्समुत्थितोऽसौ सपदि जघान वलीमुखान् सुवेण । जहुरथ कपयोऽपि तं प्रदेश किलकिलशब्दकृतोऽङ्गदादिकारते॥८२॥ स्यन्दने समुपविश्य रावणो बारितोऽपि मयकन्ययाऽचलत् सेनया समरयोधिरक्षसां सार्धमात्मसमयाऽवशिष्टया ॥ ८३ ॥ स्यन्दनस्थमवलोक्य रावणं भूमिगं च रघुनन्दनं वृषा। मातलिं रथयुतं समादिशत् राघवान्तिकमगात् स सत्वरम् ॥ ८४ ॥