पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

वासवप्रहितमञ्जसा रथं सायुधं समवलोक्य राघवः । आरुरोह सनिषङ्गचापभृत् तिम्मरश्मिरिब पूर्वपर्वतम् ॥८५॥ रावणोऽनुजमवेक्ष्य कोपितः प्राहिणोदमलशक्तिमन्तिकात् । तां विलोक्य किल लक्ष्मणः शरै- राच्छिनाद्वियति तैलकाण्डवत् ।।८६ ।। राक्षसोऽथ दशभिर्भुजैर्दधत् कार्मुकानि दश चाक्षिपच्छरान् । वानरान् समभिवीक्ष्य ते पुन- र्गोत्रमाशु सुविदार्य निर्गताः ॥८७॥ वानरा अपि शिलातलाङ्घ्रिपान् चिक्षिपुर्दशशिरोरथोपरि । लाघवेन तिलशः शरैः स तान आच्छिनत् पुनरताडयद् भृशम् ॥ ८॥ विक्षतान् दशदिशः पलायितान् तानुवाच मयनन्दिनीपतिः। मा द्रवन्तु कपयो न हन्मि वो ह्रीर्घ्नतोऽपि मन जायते हि वः ॥ ८९ ॥