पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये। १०८

मच्छराहतिभयार्दिता भृशं शेकुरभ्रमुधवादिदिग्गजाः। स्थातुमात्मककुभासु नैव ते सेश्वरा अपि कुतोऽपरे पराः ॥ ९ ॥ लक्ष्मणोऽपि सकपीश्वरः स्थिरः स्तादहं रघुवरं समाह्वये। यद्धृवो विचलनेन वारिधि- बंडतामगमदाशु वानराः ।। ९१ ।। इत्युदीर्य दशकन्धरः शरैः राममेव पिहितं चकार सः । सोऽपि तत्महितवाणसञ्चयं चाच्छिनद्विगुणसायकैः समम् ॥ १२ ॥ रावणस्य च रघूछहस्य च प्रोहभूव कलहस्तयोर्महान् । यं विलोकयितुमागताः सुराः ब्रह्मवासवमुखाः ससिद्धकाः ।। ९३ ॥ साधु साध्विति वचोऽब्रुवन् सुराः नेशो हि समरो विलोकितः । नैव भाव्य इति दर्शनोत्सुकाः विस्मृतान्यकरणीयमानसाः ॥ ९४ ॥