पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः।

रक्षसां च सवौकसामसूत् संयुगो विटपिशस्त्रयोधिनाम् । उग्रबाहुबलिना रदारदि प्रोडूभूवुरमृगापगा यतः॥ १५ ॥ रावणप्रहितपत्रिणो द्रुतं राघवोरसि सपुङ्खमाविशन् । सेवकार्पितजलादिकं विभोः सर्वमेव हृदयंगमं यतः ॥ ९६ ॥ आश्रयः समवकृष्य कार्मुकं राघवोऽपि शितवाणमाक्षिपत् । आनिपीय रुधिरं सहामुभि- बक्षसोऽस्य समगात् स बाणधिम् ॥९७॥ वर्मणोऽस्य पततः समुत्थितं पश्यतां दिविषदां पुरो महः । खे भ्रमद्रघुवरस्य विग्रहे विग्रहे ग्रह इवाविशद्रुतम् ॥ ९८ ॥ पुष्पवृष्टिरभवदिवौकसा हस्तपमानिकरार्णिता दिवः । रामचन्द्रशिरसि प्रमोदिनां साधु साधु वदतामिति स्फुटम् ॥ १९ ॥