पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

पवनभूर्नगरीमनुपुप्लुवे प्रतिगृहं न बिभीषणमन्दिरम् । प्रदहति स्म पुरं वसनाग्निना त्रिपुरकं पुरकण्टकवच्छरैः ॥ ६॥ तनयदारसमीरितहारवं विविधहेषितबृंहितपूरितम् । चटचटारवपूर्णदिगन्तरं समदहन्मदहज्वलनः पुरीम् ॥६१ ॥ हुतभुजा लिलिहेऽभ्रलिहाऽर्चिषा दशमुखाश्रवताश्रयिणाऽपि पूः। जनकजान्तरितान्तरवत्तया निमिषतो मिषतोऽसुरभूभुजः ॥ ६२ ।। अधिपयोधिजलं निजपुच्छकं पवनजः परिशम्य पयोनिधिम् । जनकजां प्रणिपत्य ततोऽतरत हनुचरस्य चरस्य होः किमु ।। ६३ ।। सुरपसूनुसुतादिहरीश्वरैः समनुवर्णितकीतिरसौ सह। उपययौ रघुवंशमणिं कपि- र्नरवरं रबरञ्जितभास्करिः ॥ ६४ ॥