पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः।

कपिवरं समुदीक्ष्य बलाधिकं द्रुहिणदैवतमस्त्रमथाददे। युधि बबन्ध च तेन सुरेन्द्रजित् पवनजं बनजं प्लवगं यथा ॥ ५५ ॥ पवनजो द्रुहिणास्त्रगुरुत्वतो निजबलस्य परीक्ष्यतया पुनः । स्वयमगात्खलु संयततामसौ हनुमतोऽनुमतो न पराक्रमः ।। ५६ ॥ पितृसमीपमनीयत मारुति- र्घननदेन निपात्य निशाचरान् । तमवलोक्य जगाद स रावणो जहि रिपुं हि रिपुञ्जय मा चिरम् ।। ५७ ॥ कपिरयं बलवानिति भात्यतो न वधमहति मोच्यतमोऽङ्कितः। इति बिभीषणवागवसानतः प्रमदतो मदतोयनिधिर्नृपः॥ ५८ ।। प्लवगपुच्छमलं वसनैर्दृढं समुपवेष्टयतेत्यवदत्तराम् । विदधिरे च तथैव निशाचराः विधिकृताधिकृतानलदीपनम् ॥ ५९ ॥