पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजय

श्रुतवलीमुखपादपभञ्जन- प्रतिघयुक्तदशानननोदितः । अगमदक्ष उरश्छदसंवृतै- रसहनैः सह नैर्ऋतसञ्चयैः ।। ५० !! तमवलोक्य करोद्धृतपादपो गजघटाभनिशाचरसञ्चयम् । हरिरिवैष जधान मरुत्सुतः स तरुणा तरुणार्कसमद्युतिः ॥ ५१ ॥ तदवधार्य दशाननदेशिताः घननिनादमुखाः रजनीचराः। चलितवन्त इवाद्रिसमुच्चयाः सुकपिशाः कपिशातनकर्मणे ॥ ५२ ॥ गतवतः समुदीक्ष्य स राक्षसान करसमुद्धृतदीर्घमहीरुहः। समपतत्महरन्नसुरेष्वसौ सुमहिमा महिमानमिवेक्षयन् ॥ ५३ ॥ मघवजित्पवनात्मजयोर्महान् कलिरभूद्वलिवासवयोरिव । शरवरागमुचोर्युधि युध्यतोः सनदयोर्नदयोरिव गर्जतोः ॥ ५४ ॥