पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः।

उपवने तदशोकतले कपि- जनकजामवलोक्य कृशां स्थिताम् । तमवलम्ब्य तनूकृतविग्रहः स च ननाम न नामकुले गृणन् ॥४५॥ दशरथात्मज उत्तरकोशला- परिवृदो बचसाऽऽगतवान् पितुः। जनकजाऽनुजयुग्विपिनं महत् तदनुगो दनुगोत्रजहाऽस्म्यहम् ॥ ४६ ॥ इति वदन्नदात्करमुद्रिका रघुवरस्य स हूतिलिपि कपिः । रवितनूजसखस्य शिवात्मनो दशशिरोऽशशिरोहरणोद्यतः ॥ ४७ ।। अमृतमिष्टतमः फलसञ्चयो मुदितया जनकात्मजयाऽपितः। हनुमता बुभुजे मुदितात्मना हरिवरेण वरेण वरीयसाम्॥ ४८ ।। प्रभुवचोऽधिककार्यकरो वर- स्त्विति धियेव समीरतनूभुवा । उपवनं सकलं विनिपातितं बलवता लवताहाकालतः ॥ ४९ ।।