पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये

सकरपादसमुन्नमनं मुदा श्रवणनेत्रविकुञ्चनमाशुगिः। चरणयुग्मतलाक्रमिताचलं दिवि ययौ विययौ स गिरिः क्षितौ ॥४०॥ वियति रामकलम्बइव वजन् सुरसया कृतवीर्यपरीक्षकः। कृतगतागततल्लपनान्तरः पवनजो वनजोदरमध्यगात् ॥ ४१ ॥ यदभिधानजपात् किल मानवो भवति दुर्गभवार्णवपारगः । रघुवरस्य सहोमिकया हरे- मुंबनधेर्बनधेस्तरणं कियत् ॥ ४२ ॥ धुरि दुदर्श नगधिदेवता कपिवरो वनिताललिताकृतिम् करतलेन च तामतिताइय- ननुविवेश विवेशपुरीमरेः॥ ४३ ॥ मृगयता त्वधिलङ्कमनुक्षणं प्रतिगृहं रघुवंशमणे: प्रियाम् । हनुमतोपवनं गतमन्तरा द्रुमलताऽमलतामरसाकरम् ॥ ४॥