पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उघिसम्प्लवने प्लवगोचमाः समवदन् दशयोजनकावधी। नलसुषेणमुखाः प्लवनक्रियाः गतिवरातिवरा अपि नाधिकाः ।। ३५ ॥ अवदच्छपतिर्जलधिप्लवे बलमिहास्ति ममामिते गतौ। परतटावधि वालिसुतोऽवदत प्रगमनं गमनं न ततोऽधिकम् ॥ ३६ ॥ पवननन्दन जोषमिहासि किं कपिवरा अवदन्निति सारुतिम् । तब बलेन वयं समुपागताः परमते रमते त्वयि विक्रमः ॥ ३७ ॥ पवनजः प्लवगानिदमब्रवीत् प्रभुरहं जलाधिक्रमणे नहि । रघुवरार्पितमुद्रिकयाऽनया कमलधिर्मलधिः किमु दुष्कमः ॥ ३८॥ अथ महेन्द्रगिरेः शिखरं ययौ जलधिसम्प्लवनाय मरुत्सुतः । रघुवराङ्घ्रियुगं मनसा स्मरन् रिपुरदं पुरदण्डयितुः प्रियम् ॥ ३९ ॥