पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये।

अनुययुः प्लवगा जलश्रेस्तदं जनकजापरिमार्गधृतवताः। अनवलोक्यमगाधमपारगं सजलज जलजन्तुभिराकुलम् ॥ ३० ॥ तरलतुङ्गतरङ्गसमुच्छ्वस- ज्जलदुरासदोधसमर्पितम्। त अभिवीक्ष्य बभूवुरलं जडाः अथ विषादविषादनतो ध्रुवम् ॥ ३१ ॥ वरमृतिः प्रबभूव जटायुषी रघुवरप्रमदार्थगतायुषः । श्रुतवलीमुखवागिति गृध्रराट् तदनुजो दनुजोऽज्य इबासरत् ॥ ३२ ॥ हरिगतानुजवृत्तसमुद्भवात् रविकुलोद्भवरामकथामृतात रविकराहतपक्षबलोऽपि यो ऽनिजबलो जवलोऽभवदाशु सः ।। ३३ ।। कपिवरानवदत्पतगेश्वरः कुरुत यत्नमिहोदधिसम्प्लवे जनकजोपवने परिदृश्यते स सुलमोऽसुलभोऽपि हि यत्नतः ॥ ३४ ॥