पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कपिवरा युवराजमुखाः स्थितं पथि निरीक्ष्य निशाचरमद्भुतम् । दशमुखोऽयमिति प्रबबाधिरे नखरदैः खरदैर्गतजीवितम् ॥ २५ ॥ अथ ययुर्विवरेण तृषातुराः कपिवरा नगरीमनरैर्युताम्। अबलया तदुपश्रुतवार्तया निगदिता गदितात्मसुवृत्तया ॥ २६ ॥ ब्रजत रावणपालितपत्तनं जनकजामवलोकयतोदधेः। परतटे त्रिजटानिकटे स्थितां विधिवशाधिवशामिति वानराः ॥ २७ ॥ गिरिदुरीषु लतापिहितास्वपि पुरि पुरीन्द्रपुरीसहशि क्षितौ । निबिडपादपवत्सु सरस्वपि सरससारससारसवत्स्चलम् ।। २८ ।। मकरमीनवतीषु नदीष्वपि मृगयतां चिपिनेऽपि वनौकसाम् । अविदतां जनकस्य सुतां बहू- न्यगवरेऽगवरे दिवसान्ययुः ॥ २९ ॥ ११ रा०