पृष्ठम्:रामविजयमहाकाव्यम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समविजये।

पवननन्दनवालिजजाम्बव- न्नलमुखाः पयो विमलाशयाः। कलशयोनिदिशि प्रहिता रुचौ रविसमा विसमा गगने गतौ ॥ २० ॥ पवनजस्य करे रघुनन्दुनो जनकजापरिपाति विभूषणम् । हरिसुतात्तमतो मणिमुद्रिकां निहितवान् हितवानयमित्यलम् ॥ २१॥ अथ दिशो विदिशश्च वलीमुखा गिरिसमाञ्जनपुञ्जनिभा द्रुतम् । कपिशवर्णधराः कनकोज्ज्वला गजबला जवला हरिमाययुः ॥ २२ ॥ दशदशोत्तरलक्षगुणावधी- भबलशालिशिलानिपशास्त्रिणः । हरितवर्णनिभा नियुतायुता अरुणभाऽरुणभानुकलेवराः ॥ २३ ॥ निषधविन्ध्यहिमालयसम्भवा मलयमन्दरमेर्वचलादिजाः । दिविषदंशभवा नखरायुधा घनरवा नरवाचि विचक्षणाः ॥ २४ ॥