पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः।

प्रशममाप ककुत्स्थकुलोद्भवः प्रणतितः कुपितो नितरामसौ। चरणतः खनति स्फुटमङ्घ्रिपा- ननमतो नमतो न नदीरयः ॥१५॥ प्रणिजगाद हरीशमहीश्वरः शरदियं समुपागतवत्यपि । जनकजापरिमार्गविचक्षणा न कपयोऽकपयो गमितास्त्वया ॥ १६ ॥ तमवदत्समयं रविनन्दनो दिशि दिशि प्रहिताः कपयो मया । दशदिनावधयश्चलिता इतो हरिवरास्विरार्दनविक्रमाः ॥ १७ ॥ स युवराजहरीश्वरजाम्बव- हनुमतो विनिधाय पुरःसरान् । रघुवरान्तिकमागतवान् बली बलवतो लबतो हरिदन्तगान् ॥ १८ ॥ रघुपतेर्वचसा हरिणेरिताः प्रतिदिशं हरयो बलवत्तराः । जनकजापरिमार्गविधौ रताः समरयामरयानगतीश्वराः ॥ १९ ॥